Guru Rakshya Kavach
गुरु कवच/Guru Kavach ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥ नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे । वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥ भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । संहार भैरवः पायादीशान्यां च महेश्वरः ॥ ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥ रामदेवो वनान्ते च वने घोरस्तथावतु । जले तत्पुरुषः पातु स्थले ईशान एव च ॥ डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥ महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा । वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥