Akadasmukhi Hanuman Kavach
|| एकादशमुखि हनुमत्कवचम् || (रुद्रयामलतः) श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । कवचानि च सौराणि यानि चान्यानि तानि च ॥ १॥ श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च । किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥ २॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि सावधानावधारय । हनुमत्कवचं पुण्यं महापातकनाशनम् ॥ ३॥ एतद्गुह्यतमं लोके शीघ्रं सिद्धिकरं परम् । जयो यस्य प्रगानेन लोकत्रयजितो भवेत् ॥ ४॥ ॐ अस्य श्रीएकादशवक्त्रहनुमत्कवचमालामन्त्रस्य वीररामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीमहावीरहनुमान् रुद्रो देवता । ह्रीं बीजं । ह्रौं शक्तिः । स्फें कीलकम् । सर्वदूतस्तम्भनार्थं जिह्वाकीलनार्थं, मोहनार्थं राजमुखीदेवतावश्यार्थं ब्रह्मराक्षसशाकिनीडाकिनीभूतप्रेतादिबाधापरिहारार्थं श्रीहनुमद्दिव्यकवचाख्यमालामन्त्रजपे विनियोगः । ॐ ह्रौं आञ्जनेयाय अङ्गुष्ठभ्यां नमः । ॐ स्फें रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ स्फें वायुपुत्राय मध्यमाभ्यां नमः । ॐ स्फें अञ्जनीगर्भाय अनामिकाभ्यां नमः । ॐ स्फें रामदूताय कनिष्ठिकाभ्यां नमः । ॐ ह्रौं ब्रह्मास्त्रादिनिवारणाय करतलकरपृष्ठाभ्यां नमः । ॐ ह्रौं आञ्जनेयाय हृदयाय नम...