Posts

Showing posts from November, 2022

Gopal Akshaya kavach:-

अथ श्री गोपाल अक्षय कवचम् ।।  Gopala Akshaya kavacham. श्री गणेशाय नमः ।। श्रीनारद उवाच:- इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् । अक्षयं कवचं नाम कथयस्व मम प्रभो ॥१॥ यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् । ब्रह्मोवाच:- शृणु पुत्र मुनिश्रेष्ठ कवचं परमाद्भुतम् ॥२॥ इन्द्रादिदेववृन्दैश्च नारायणमुखाच्छ्रतम् । त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ॥३॥ ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः । अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य प्रजापतिऋर्षिः, अनुष्टुप्छन्दः, श्रीनारायणः परमात्मा देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः ।। पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः ॥४॥ ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः । वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः ॥५॥ वामपार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः । बाहुमूले वासुदेवो हृदयं च जनार्दनः ॥६॥ कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम् । कर्णौ मे माधवः पातु हृषीकेशश्च नासिके ॥७॥ नेत्रे नारायणः पातु ललाटं गरुडध्वजः । कपोलं केशवः पातु चक्रपाणिः शिरस्तथा ॥८॥ प्रभाते माधवः पातु मध्याह्ने मधुसूदनः । दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः ॥...