Sankat Nasak Bishnu Strurt hindi:
॥ संकष्टनाशन विष्णुस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ नारद उवाच। पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः । भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १॥ देवा उवाच। नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे । विधात्रादि सर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेऽस्तु ॥ २॥ रमावल्लभायाऽसुराणां निहन्त्रे भुजंगारियानाय पीताम्बराय । मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३॥ नमो दैत्यसन्तापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते । भुजंगेशतल्पेशयानायाऽर्कचन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४॥ संकष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः । स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ॥ ५॥ ॥ इति पद्मपुराणे नारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् ॥