Sankat Nasak Bishnu Strurt hindi:


॥ संकष्टनाशन विष्णुस्तोत्रम् ॥

श्रीगणेशाय नमः ॥
नारद उवाच।
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १॥
देवा उवाच।
नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेऽस्तु ॥ २॥

रमावल्लभायाऽसुराणां निहन्त्रे भुजंगारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३॥

नमो दैत्यसन्तापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४॥

संकष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ॥ ५॥

॥ इति पद्मपुराणे नारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् ॥

Comments

Popular posts from this blog

Narayan kavach in Assamese:-

নাৰায়নাস্ত্ৰ মন্ত্ৰ Naraynastra mantra

হনুমান চালিশা/Hanuman chalisha assamese